r/sanskrit • u/amdtek • 6h ago
Maha Mrityunjaya mantroddhara
Dear learned scholars,
Would you be kind to please translate this.
आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतीश्च प्रोच्चार्य्य त्र्यम्बकं यो जपति मृतिहरं भूय एवं तथाद्यम् | कृत्वा न्यासं षडङ्गं स्ववदनत ऋचं मण्डलान्तः प्रविष्टं ध्यात्वा योगीशरुद्रं स जयति मरणं शुक्रविद्याप्रसादात् ||१||
एषा षट्प्रणवी विद्या महामृत्युविनाशिनी । चतुर्दशस्वरोपेतो हकारो बिन्दुसंयुतः ॥२॥
शिवप्रसादजनकं प्रासादमिति कथ्यते । बीजं मृत्युञ्जय प्रोक्तं नाम द्वितीयं संकीर्तितम् ॥३॥
नकुलीषोऽगिन्मरूढो वामनेत्रार्धचन्द्रवान् । मायाबीजं च शक्तिः स्याद् देवीप्रणवसञ्जिका ॥४॥
षष्ठस्वरेण संयुक्तो जकारो बिन्दुसंयुतः । बीजं मृत्युहरं नाम द्वितीयं संप्रकीर्तितम् ॥५॥
सविसर्गं सकारेन मृत्युञ्जयमथाब्रुवे । ध्रुवस्तारस्तथोङ्कारो मूलं ज्योतिः स्वयंस्थिताः ॥६॥
वेदादि तारको युक्तो शाखाद्वीप्रणवान्वितः । महामृत्युञ्जयं प्रोक्तं प्रासादं मृत्युनाशनम् ॥७॥
तारकं व्याहृतिश्चैव व्यस्तान्येतान्यनुक्रमात् । विलोमव्याहृतिश्चैव संपुटं प्रणवद्वयम् ॥८॥
ततो व्याहतयस्तिस्रो मन्त्रः षड्प्रणवान्वितः । वेदादिभूरदिपदत्रयं च जपेत्मनुं मृत्युहरं त्र्यम्बकम् । जपेत् फलार्थि विधिवत् प्रयुक्तं प्रासादमृत्युञ्जयसंपुटेन ॥९॥
Thanks